महद्प्रमोदस्य अयं वार्ता यतोsही भोपालस्य “सेज इंटरनेशनल स्कूल” न केवल मध्यप्रदेशे अपितु सम्पूर्ण भारतवर्षे इदानीं पर्यायमस्ति। एतावताल्पकालमैव स्वीकृत्य विद्यालयमिदं विद्यालयेषु शीर्षस्य भागे स्थितमस्ति।
एतस्य विद्यालस्य आधारभूत संरचना उत्तमशिक्षणम् , अनुभवयुक्तशिक्षकाः, तकनीकि एवं सामाजिक– सांस्कृतिक–धार्मिक परिपेक्ष्ये अग्रगण्यमस्ति। अत्र मनोरंजनं, क्रीडा एवं शैक्षिक कार्यशालानां सुविधाः उपलब्धाः सन्ति। इतोsपि “सेज इंटरनेशनल स्कूल” अस्माकं भारतीय संस्कृतिं उत्सवानां संमानं करोति।
अधुनैव ऑनलाईन माध्यमेन विद्यालय द्वारा
दीपावली–उत्सवस्यायोजनं कृतं। तत्र छात्रा: अत्युत्साहेन भागं गृहितवन्तः। छात्राः नृत्य–गीतादि माध्यमेन दीपावलेः महत्वं प्रकटितवन्तः लक्ष्मीमातुः अर्चना पुरस्सर भगवतः रामस्य पुनः अयोध्यागमन प्रसंगं बहु सम्यक्तया प्रदर्शितवन्तः ।
तथैव बालदिवसोपलक्ष्ये शिक्षकाः छात्राणां कृते प्रेरणास्पद कार्यक्रमान् आयोजितवन्तः।
तत्र गीत–नृत्य काव्यकण्ठपाठ, हास्य नाटकादि द्वारा छात्रान् स्वर्णिम भविष्य कृते प्रेरणां दत्तवन्तः। सेज समूहस्य निर्देशक महोदयः श्री पी एस राजपूत एवम् विद्यालयस्य प्राचार्या श्रीमती नीलम चौधरी महोदयाश्च छात्रान् दीपावल्याः बालदिवसस्य च शुभकामनां दत्तवन्तः।
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रपूते सदा देवि महालक्ष्मि नमोस्तु ते ॥
I got what you mean,saved to favorites, very nice site. Gabbey Guglielmo Pond